Skip to content Skip to footer

शास्त्राङ्गम्

भूमिका

भारतस्य विषये वयं चिन्तयामः तर्हि सर्वप्रथमं अस्माकं मनसि एक बृहत्तमं भूखण्डस्य चित्रं आगच्छति, तं वयं “भारतम्” इति वदामः ।

विष्णुपुराणे उक्तं यत्

उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।

वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ॥

(विष्णुपुराणम् २.३.१)

अर्थात् हिमालयस्य दक्षिणे पुनश्च समुद्रस्य उत्तरे यद् वर्षं तद् भारतं इति। भारतीयसनातनसंस्कृत्याः परिचयं वैदिककालाद्‌ उद्भवति। वयं सर्वैरपि जानीमः यत् तस्मिन् समये अस्माकं वेदेषु, पुराणेषु , ब्राह्मणग्रन्थेषु, कीदृशं अद्भुतं विशिष्टञ्च ज्ञानं आसीत्।

अनेकाः ऋषयः, वैज्ञानिकाश्य अस्मिन् भारते अभवन्। तेषां सदृशं ज्ञानं अस्मिन्समये संसारे न कुत्रापि लभ्यते ।

वैदिककाले वयं वेदाङ्गविषये पठामः यत् भारतस्य कालगणना अतीव प्राचीना समृद्घा च वर्तते ।

तस्मिन्समये जनान् ज्योतिषविषयस्य ज्ञानं अतीव प्राचीनं सूक्ष्मञ्च आसीत् । मनुस्मृत्यां वयं पश्यामः यत् प्राचीनकाले मनुष्याः सामुहिकपरिवारे निवसन्ति स्म। तत्र बालानां पालनं, पोषणं, भरणं, संवर्धनञ्च बहुसम्यक् रूपेण भवति स्म। तेषां कृते क्रीडावैज्ञानिकी पद्धति: आसीत्। तेषां बालानां मानसिकं शारीरिकञ्चविकासम् उत्तमरीत्याः सञ्जातः। क्रीडा समग्रमानवजीवनस्य स‌ङ्गिनी अस्ति । अतः एव ‘क्रीडा’ श्लाघयन्तो विद्वांसः कथयन्ति यत्

स्वकीय राष्ट्रस्य यशोविवृदध्यै स्वतन्त्रतायाः परिरक्षणाय ।

इष्टाश्च पुष्टाश्च सदैवसज्जा, भवन्तुसर्वे भुविभारतीयाः ॥ २ ॥

तस्मिन् समये अक्षकन्दुकाक्षिमेषिणीकर्पदण्डपाशका: आदिक्रीडाः आसन्। काञ्चन् क्रीडाः बालैः सह वयस्का: अपि क्रीडन्ति स्म। तासु अक्षक्रीडा प्रमुखा

पाशकस्य इतिहासम् = तर्हि वयं जानीमः यत् अक्षकीडा, पाशकानां विषये वयं प्रायः ऋग्वेदे, पुराणेषु महाभारते च पठामः । पाशकस्य प्रयोगः सर्वप्रथमं ऋग्वैदिककाले (१३,००० वर्षपूर्वम्) मिलति स्म। तस्मिन् समये पाशकस्य प्रयोगं विभिन्नरूपेषु भवति स्म। प्राचीनाध्ययने वयं त्रिकोणात्मकम्, अष्टफलकम्, पञ्चकोणीयम्, द्वादशफलकम्, विंशतिफलकाम् , अष्टापदम् , दशपदम् इत्यादय: प्रकाराः प्रायः मिलन्ति स्म। अस्माकं ऋग्वेदे अक्षसूक्तनाम्नः एकं सूक्तं मिलति। तत्र सर्वप्रथमम् अस्य प्रयोगः अस्मान् मिलति। अष्टपदम् सर्वाधिकं प्राचीनम्। परं भारतस्य ग्रामेषु अष्टपदं इदानीमपि प्रचलति, मम सौभाग्यं यत् कोरोनाकाले मयापि अष्टपदं क्रीडितम्। वेदानां कालाधारेण वयं वक्तुं शक्नुमः यत् सृष्टिरचनानन्तरं प्रथमं पाशकस्य प्रयोग: अखण्डभारते एव अभवत् ।

महाभारते (७,५०० वर्षपूर्वम्) वयं एकस्मिन् प्रसङ्गे पश्यामः यत् दुर्योधनस्य मातुलः शकुनिं समीपे मायाकारकाः पाशकाः आसन्। प्राचीन काले प्रायः राज्ञां, धनिकानाञ्च कृते प्रियक्रीडा आसीत्।

विश्वस्य सर्वाधिकपुरातनं सिन्धुसभ्यतायाः (५००० वर्षपूर्वम्) उत्खननेऽपि पाशकानां भण्डार: लब्ध:। कालान्तरे निरन्तरं समयानुसारं पाशकस्यापि परिवर्तनं जातम्। पुनश्च पाशकेन क्रीडार्थं अनेकानि क्रीडकानि सन्ति। अस्माभिः

निर्मितं पाशफलकं आधुनिकपुरातनज्ञानपरम्परायाः संयोगः अस्ति। अत्र वयं मनोरञ्जनेन सह ज्ञानार्जनम् अपि कर्तुं शक्नुमः ।

ज्योतिषम्

ज्योतिषः वेदाङ्गेषु नयनम् इति उच्यते। अतः उक्तं यत् “ज्योतिषामयनं चक्षु”

प्राचीनसमये वराहमिहिर , ब्रह्मगुप्तः , शङ्करबालकृष्णः इत्यादयः आचार्याः ज्योतिषशास्त्रे अभवन्। ग्रहनक्षत्राणां स्थानं, गणना, परिक्रमा इत्यादय: विषयानां ज्योतिषे अमूल्यज्ञानम् अस्माकं ज्योतिषाचार्याः विना यन्त्रेण विश्वस्य विशुद्धज्योतिषविद्यायाः रचना अकुर्वन् l ज्योतिषशास्त्रे नवग्रहानां महत्वं अत्यधिकं वर्तते।

नमः सूर्याय चन्द्राय मङ्गलाय बुधाय च

गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः ॥

रविः, चन्द्रः , कुञ्जः , बुध:, शुक्र:, शनि: , राहुकेतवश्य ऐते अस्माकं नवग्रहाः सन्ति । सर्वे ग्रहाः उपग्रहाश्च सूर्यं परितः भ्रमन्ति । अस्माकं पृथ्वी: अपि तथैव सूर्यं परितः समति। एतत् भ्रमणसौरकुटुम्बस्य व्यवस्थायाः भागः। सर्वे ग्रहाः स्वकीयकक्षासु परिभ्रमन्ति । अनेनैव पृथिव्यां दिन-रात्रि , वर्षाः , ऋतवः , मासा: इत्यादीनां निर्माणं भवति । वर्तमानकाले वयं ज्योतिषविषये अत्यधिकं न जानीमः परिवर्तनस्य अस्मिन् क्रमे वयं अस्माकं शास्त्रं, संस्कृति: च विस्मृतवन्तः । इदानीं बालका: पौराणिकी विषये किमपि न जानन्ति । यत् ज्ञानम् आवश्यकं तत् अपगतम्। अतः अस्माकं चिन्तनं यत् क्रीडामाध्यमेन वयं अस्माकं संस्कृते: विषये ज्ञातुं शक्नुमः ।

समायानुसारम् आधुनिको भवामः संस्कृतिमपि रक्षामः ।

एतस्मिन् प्रयासे भवतां सर्वेषां कृते अस्माभिः एका अक्षाधारिता क्रीडा रचिता ।

तस्या: नाम ‘शास्त्राङ्गम् इति ।

क्रीडा उद्देश्यम्

“शास्त्राङ्गम्” इति नाम्ना एषा क्रीडा अक्षाधारिता अस्ति। क्रीडायाः उद्देश्यं स्पष्टं अस्ति, आधुनिकीकरणं अस्माभिः अस्माकं पुरातनम् इतिहासं विस्मृतम्। वयं वेदपुराणेषु, पौराणिकसाहित्येषु किमपि न जानीमः पुनश्च अस्मिन् समये जनाः अन्तर्जालसागरे व्यस्ताः सन्ति । गृहेषु परिवारजनै: सह मिलित्वाकोऽपि भोजनं, पठन-पाठनम् , क्रीडनञ्च इत्यादिकं न कुर्वन्ति । एतेन कारणेन परिवारषु मैत्रीस्नेहवात्सल्यं तद् सर्वं नष्टम् । क्रिडापि दूरवाण्यां सङ्गणके च प्रचलति । एतेषु वयं अत्यधिकं मानसिकी पीड़ा सहामः पुनश्च वर्तमानकाले बालानां बौद्धिकविकासम् अवरुद्धम्।अत्यधिकेन अन्तर्जालसंवित्सम्भाषणेन मस्तिष्कस्योपरि दुष्प्रभावम् आयाति । अतः अस्माकं संस्कृतिरक्षणे, बौद्धिकविकासे, मनोरञ्जने च एतादृशी क्रीडा आवश्यकी

कथं क्रीडनम् ?

सौभाग्यशालिनोऽहं यत् प्रक्षेपणात् पूर्वं मया शास्त्राङ्गं क्रीडितम् । एकस्मिन् दिने अहं शास्त्राङ्गस्य संस्थापकमहोदयं मिलितवान् मया दृष्टं यत् तस्य समीपे एकं सन्दूकं आसीत् । सः माम् उक्तवान् यत् भवान् सन्दूकम् उद्घाटयतु। आवां द्वौरपि शास्त्राङ्गं क्रीडावः सः माम् उक्तवान् यत् न्युनातिन्यूनं द्वौ जनौ सह अधिकाधिकं षड् जनैः सह क्रीडितुं शक्नुमः । शास्त्राङ्गस्य फलकस्य रचना काष्ठेन कृता अस्ति। पुनश्च तस्य पाशकस्य रचना हस्तनिर्मितम्। एतत् दृष्ट्वा मम मनः प्रसन्नः शास्त्राङ्गस्य मण्डले मया राशयः, नवगृहाणि, अष्टाविंशतिः नक्षत्राणि, मन्दिराणि दृष्टानि I अहं ज्ञातवान् यत् शास्त्राङ्गस्य आरम्भे अभिजीतनाम्नः नक्षत्रात् भवति स्म। महोदयः उक्तवान् यत् पाशकस्य अङ्कै: सहाय्येन शास्त्राङ्गस्य प्रतीकं घालयित्वा स्वकीयनक्षत्रे गत्वा गृहस्य निर्माणं अपि कर्तुं शक्नुमः। गृहनिर्माणार्थं अस्माभिः धन आवश्यकं अतः महोदयः उक्तवान् यत् शास्त्राङ्गस्य स्वकीयमुद्रापि अस्ति। सा मुद्रा अष्टादशराष्ट्राणां भाषायां वर्तते। पुनश्च शत्रुपक्षः स्वकीयनक्षत्रगृहं रक्षितव्यं इति अस्माकं क्रीडनस्य भागः संस्थापकमहोदयः वदति यत् अस्माकं नक्षत्रभ्रमणं वर्षपरिमात्मकं इति । यतोहि वयं जानीम: यत् नक्षत्राणां ऋतूनां माध्यमेन वर्षनिर्माणं भवति ।

मया दृष्टं यत् शास्त्राङ्गं अखण्डभारतस्य स्थिति: समृद्धा कुर्वन् अस्ति । तस्य प्रतिबिम्बं शास्त्राङ्गे स्थितेषु मन्दिरेषु दृष्टुं शक्नुमः। अक्षपटले विष्णोः, सरस्वत्याः, महालक्ष्म्याः, हिङ्ग्रलाजमातु:, गणेशस्य, पशुपतिनाथस्य, राहुकेतवयोः , कार्तिकेयस्य, हनुमतस्ययश्च मन्दिराणि सन्ति। एतेषु केचन् आधुनिकभारते विदेशे च सर्वाणि मन्दिराणि अखण्डभारतस्य प्रतिकसादृशानि सन्ति। एतत् सर्वं दृष्ट्वा मम हृदयः प्रसन्नः जातः । पौराणिकज्योतिषाधुनिकमनोरञ्जनञ्च समाहारं केवलं शस्त्राङ्गे। अतः शस्त्राङ्गं मां बहुरोचते तर्हि भवन्तः सर्वैरपि सिद्धाः वा?

“आगच्छन्तु आगच्छन्तु शास्त्राङ्गम् आस्वादयन्तु।“

 Meghendra Pratap
Meghendra Pratap

Prayagraj

en English